|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.149. अध्यायः 149
Mahabharata - Adi Parva - Chapter Topics
द्रुपदस्य याजोपयाजसमीपगमनम्॥ 1 ॥ उपयाजेन द्रोणविनाशकपुत्रोत्पादनार्थं याजनाय प्रार्थिते याजनस्य प्रत्याख्यानम्॥ 2 ॥ याजेनाङ्गीकारे यजनारम्भः॥ 3 ॥ अपत्यप्रदहविःप्राशनार्थं द्रुपदपत्न्या आह्वाने गर्वात्तया विलम्बनम्॥ 4 ॥ क्रुद्धाभ्यां याजोपयाजाभ्यां अग्नौ हृविषो होमेनाग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिः॥ 5 ॥ द्वितीयहविषो होमेन पाञ्चाल्या उत्पत्तिः॥ 6 ॥ तयोर्नामकरणम्॥ 7 ॥ द्रोणाद्धृष्टद्युम्नस्यास्त्रशिक्षणम्॥ 8 ॥
Mahabharata - Adi Parva - Chapter Text
`वैशम्पायन उवाच। 1-149-0x(881)(6776)
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा।
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम्॥ 1-149-1(6777)
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च।
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान्॥ 1-149-2(6778)
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्।
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन्॥ 1-149-3(6779)
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया।
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान्॥ 1-149-4(6780)
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम्।
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च॥ 1-149-5(6781)
कर्तुं प्रयतमानो वै न शशाक पराजयम्।
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन्॥ 1-149-6(6782)
ब्राह्मणावसथं पुण्यमाससाद महीपतिः।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः॥ 1-149-7(6783)
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ।
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः॥ 1-149-8(6784)
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ॥ 1-149-9(6785)
स उपामन्त्रयामास सर्वकामैरतन्द्रितः।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे॥ 1-149-10(6786)
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्।
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम्॥ 1-149-11(6787)
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम्।
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः॥ 1-149-12(6788)
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति॥ 1-149-13(6789)
वैशम्पायन उवाच। 1-149-14x(882)
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा।
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम्॥ 1-149-14(6790)
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव।
उपयाज चरस्वैतत्प्रदास्यामि धनं तव॥ 1-149-15(6791)
उपयाज उवाच। 1-149-16x(883)
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम्। 1-149-16(6792)
वैशम्पायन उवाच।
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ॥ 1-149-16x(884)
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा।
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः॥ 1-149-17(6793)
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा।
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने॥ 1-149-18(6794)
अपरिज्ञातशौचायां भूमौ निपतितं फलम्।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्॥ 1-149-19(6795)
विमर्शं हि फलादाने नायं कुर्यात्कथंचन।
नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान्॥ 1-149-20(6796)
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत्।
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च॥ 1-149-21(6797)
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा।
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः॥ 1-149-22(6798)
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन्।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा॥ 1-149-23(6799)
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः।
एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा॥ 1-149-24(6800)
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति॥ 1-149-25(6801)
वैशम्पायन उवाच। 1-149-26x(885)
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्॥ 1-149-26(6802)
भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह।
गोशतानि ददान्यष्टौ याज याजय मां विभो॥ 1-149-27(6803)
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम्।
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत्॥ 1-149-28(6804)
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे॥ 1-149-29(6805)
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी।
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः॥ 1-149-30(6806)
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात्।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः॥ 1-149-31(6807)
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः।
द्रोणस्य शरजालानि रिपुदेहहराणि च॥ 1-149-32(6808)
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा।
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम्॥ 1-149-33(6809)
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे॥ 1-149-34(6810)
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः॥ 1-149-35(6811)
सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम्।
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम्॥ 1-149-36(6812)
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः।
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा॥ 1-149-37(6813)
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम्॥ 1-149-38(6814)
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते।
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान्॥ 1-149-39(6815)
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्॥ 1-149-40(6816)
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान्।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम्॥ 1-149-41(6817)
वैशम्पायन उवाच। 1-149-42x(886)
तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन्।
गुर्वर्थ इति चाकाममुपयाजमचोदयत्॥ 1-149-42(6818)
द्रुपदं च महाराजमिदं वचनमब्रवीत्।
मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम्॥ 1-149-43(6819)
क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारानुपकल्पय। 1-149-44(6820)
वैशम्पायन उवाच।
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः॥ 1-149-44x(887)
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम्।
याजो द्रोणविनाशाय याजयामास तं नृपम्॥ 1-149-45(6821)
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः॥ 1-149-46(6822)
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै।
इह पुत्रो महावीर्यो महातेजा महाबलः।
इष्यते यद्विधो राजन्भविता स तथाविधः॥ 1-149-47(6823)
वैशम्पायन उवाच। 1-149-48x(888)
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः।
आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये॥ 1-149-48(6824)
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि।
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः॥ 1-149-49(6825)
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा॥ 1-149-50(6826)
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।
कुमारश्च कुमारी च पितृवंशविवृद्धये॥ 1-149-51(6827)
पृषत्युवाच। 1-149-52x(889)
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च।
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये॥ 1-149-52(6828)
याज उवाच। 1-149-53x(890)
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम्।
कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा॥ 1-149-53(6829)
वैशम्पायन उवाच। 1-149-54x(891)
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः॥ 1-149-54(6830)
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन्।
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः॥ 1-149-55(6831)
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत्॥ 1-149-56(6832)
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः॥ 1-149-57(6833)
राज्ञः शोकापहो जात एष द्रोणवधाय हि।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा॥ 1-149-58(6834)
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति।
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते॥ 1-149-59(6835)
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता।
प्रत्याख्याते पृषत्या च याजके भरतर्षभ॥ 1-149-60(6836)
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा।
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा॥ 1-149-61(6837)
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी॥ 1-149-62(6838)
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति॥ 1-149-63(6839)
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।
देवदानवयक्षाणामीप्सिता वरवर्णिनी॥ 1-149-64(6840)
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति॥ 1-149-65(6841)
सुरकार्यमियं काले करिष्यति सुमध्यमा।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम्॥ 1-149-66(6842)
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्।
न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा॥ 1-149-67(6843)
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः।
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ॥ 1-149-68(6844)
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी॥ 1-149-69(6845)
न वै मदन्यां जननीं जानीयातामिमाविति।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया॥ 1-149-70(6846)
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः।
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि॥ 1-149-71(6847)
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति।
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः॥ 1-149-72(6848)
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा॥ 1-149-73(6849)
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्॥ 1-149-74(6850)
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्॥ 1-149-75(6851)
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया॥ ॥ 1-149-76(6852)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनपञ्चाशदधिकशततमोऽध्यायः॥ 149 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-149-63 क्रोशात् क्रोशमभिव्याप्य॥ 1-149-71 द्युम्नाद्युत्संभवात् हिरण्यादिभिः सह जातत्वात्॥ ऊनपञ्चाशदधिकशततमोऽध्यायः॥ 149 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|